Srimate Ranga Ramanuja Mahadesikaya namaH

श्रीमते श्रीरङ्गनाथपरब्रह्मणे नमः

श्रीमते रङ्गरामानुजाय महादेशिकाय नमः

परमपदकैङ्कर्यपदवीं प्राप्ताः ह्यः अस्माकम् आचार्यवर्याः श्रीरङ्गं श्रीमदाण्डवन् स्वामिनः श्री रङ्गरामानुजमहादेशिकाः अतीव कुशाग्रमतिमन्तः एवं परमकृपालवः सन्तः गतेषु एकोनत्रिंशद्वर्षेषु बहून् शिष्यान् सप्रियं शासितवन्तः । बहुभाषाप्रवीणाः सन्तः स्वीयहास्यभावेनापि सर्वान् अपि आकृष्टवन्तः । यद्यपि तेषां सन्निधौ सम्यक् परिचितः नासं  तथापि महाभाग्यमेकं प्राप्तवानहमिति विषयः महते प्रमोदाय कल्पते । किमिति चेत् हेमलम्ब वर्षे आषाढमासे यदा आचार्याः श्रीभूतपुर्यां सुनिर्मिते नूतने आश्रमे एकान्ताः आसन् तदा मन्मन्दमत्या आचार्यविषये द्वादशपद्यानि रचयित्वा तेषां सन्निधौ सविनयं समर्पितवान् । मम गुरुवर्याः श्रीमुकुन्दाचार्याः अपि तत्रैव आसीत् तस्मिन् समये । आचार्याः पद्यानि पूर्णतया पठित्वा आमोदितवन्तः इति विषयः महते प्रमोदाय कल्पमानः अस्ति मे । सार्थानां पद्यानां जालसङ्केतः अत्र एव दीयते । पठित्वा सर्वेपि मोदन्तु –

http://nakulasya-sughosha.blogspot.in/2017/09/acharya-stuti-malika-on-hh-srimadh.html

Leave a Reply

Your email address will not be published. Required fields are marked *

Enter Captcha Here : *

Reload Image