Sri Gopala Vimshati – meaning with emphasis on Sanskrit

Sri Gopala Vimshati is one of the 28 stotras composed by Sri Nigamantha Mahadesikan. It has twenty one verses in all, the last one being the phalastuti. In the 20 mellifluous verses, Desikan brings out his anubhava of the beautiful form of the naughty Balakrishna that are rich in sabda alankara as well.

The link to the consolidated audio file of the introduction and the first seven verses is as below.

https://drive.google.com/open?id=1-sH0zIm4Kan-bDZ3mWOSJiQpVHR-T5nL

The link to the consolidated audio file of the next 7 verses – from the 8th to 14th is as below.

https://drive.google.com/open?id=1chCHnkRzRL-SUEhMs-fv5sinHF1v9KAp

The link to the consolidated audio file of the last 7 verses – from the 15th to 21st is as below.

https://drive.google.com/open?id=1A5cqWKUsnxArphV9tvErL85gyJobe0lN

Dasan

Sreeram.

16 Replies to “Sri Gopala Vimshati – meaning with emphasis on Sanskrit”

  1. वाचं निजाङ्क-रसिकां प्रसमीक्षमाणो
    वक्त्रारविन्द-विनिवेशित-पाञ्चजन्यः ।
    वर्ण-त्रिकोण-रुचिरे वर-पुण्डरीके
    बद्धासनो जयति वल्लव-चक्रवर्ती ॥ २ ॥

    पदविभागः
    वाचम् निजाङ्क-रसिकाम् प्रसमीक्षमाणः वक्त्रारविन्द-विनिवेशित-पाञ्चजन्यः वर्ण-त्रिकोण-रुचिरे वर-पुण्डरीके बद्धासनः जयति वल्लव-चक्रवर्ती ।

    अन्वयक्रमः
    जयति
    कः जयति ? वल्लव-चक्रवर्ती
    कीदृशः वल्लव-चक्रवर्ती ? प्रसमीक्षमाणः
    कां प्रसमीक्षमाणः ? वाचम्
    कीदृशीं वाचम् ? निजाङ्क-रसिकाम्
    पुनः कीदृशः वल्लव-चक्रवर्ती ? वक्त्रारविन्द-विनिवेशित-पाञ्चजन्यः
    पुनः कीदृशः वल्लव-चक्रवर्ती ? बद्धासनः
    कुत्र बद्धासनः ? वर-पुण्डरीके
    कीदृशे वर-पुण्डरीके ? वर्ण-त्रिकोण-रुचिरे

    अन्वयः
    वल्लव-चक्रवर्ती, वाचं निजाङ्क-रसिकां प्रसमीक्षमाणः, वक्त्रारविन्द-विनिवेशित-पाञ्चजन्यः, वर्ण-त्रिकोण-रुचिरे वर-पुण्डरीके
    बद्धासनः जयति ।

    Thanks a lot for the detailed explanation. Hope this is right!

  2. आम्नाय-गन्धि-रुदित-स्फुरिताधरोष्टम्‌
    आस्राविलेक्षणम् अनुक्षण-मन्दहासम्‌ ।
    गोपाल-डिम्भ-वपुषं कुहना-जनन्याः
    प्राण-स्तनन्धयम् अवैमि परं पुमांसम्‌ ॥ ३ ॥

    अवैमि
    कम् अवैमि ? पुमांसम्‌
    कीदृशं पुमांसम्‌ ? परम्
    कीदृशं परं पुमांसम्‌ ? आम्नाय-गन्धि-रुदित-स्फुरित-अधरोष्टम्‌
    पुनः कीदृशं परं पुमांसम्‌ ? आस्र-आविल-ईक्षणम्
    पुनः कीदृशं परं पुमांसम्‌ ? अनुक्षण-मन्दहासम्‌
    पुनः कीदृशं परं पुमांसम्‌ ? गोपाल-डिम्भ-वपुषम्
    पुनः कीदृशं परं पुमांसम्‌ ? प्राण-स्तनन्धयम्
    कस्याः प्राण-स्तनन्धयम् ? कुहना-जनन्याः

    आम्नाय-गन्धि-रुदित-स्फुरित-अधरोष्टम्‌, आस्राविलेक्षणम्, अनुक्षण-मन्दहासं, गोपाल-डिम्भ-वपुषं, कुहना-जनन्याः प्राण-स्तनन्धयं, परं पुमांसम्‌ अवैमि ।

  3. आविर्भवत्वनिभृताभरणं पुरस्तात्‌
    आकुञ्चितैकचरणं निभृतान्यपादम्‌ ।
    दध्ना निमन्थमुखरेण निबध्दतालं
    नाथस्य नन्दभवने नवनीतनाट्यम्‌ ॥
    आविर्भवतु अनिभृत-आभरणम् पुरस्तात्‌ आकुञ्चित-एक-चरणम् निभृत-अन्यपादम्‌ दध्ना निमन्थ-मुखरेण निबध्द-तालम् नाथस्य नन्दभवने नवनीतनाट्यम्‌ ।
    • आविर्भवतु
    • कुत्र आविर्भवतु ? पुरस्तात्‌
    • किं आविर्भवतु ? नवनीतनाट्यम्‌
    • कस्य नवनीतनाट्यम्‌ ? नाथस्य
    • कीदृशं नवनीतनाट्यम्‌ ? अनिभृत-आभरणम्
    • पुनः कीदृशं नवनीतनाट्यम्‌ ? आकुञ्चित-एक-चरणम् पुनः कीदृशं नवनीतनाट्यम्‌ ?
    • पुनः कीदृशं नवनीतनाट्यम्‌ ? निभृत-अन्यपादम्‌
    • पुनः कीदृशं नवनीतनाट्यम्‌ ? निबध्द-तालम्
    • केन निबध्द-तालम् ? दध्ना
    • कीदृशेन दध्ना ? निमन्थ-मुखरेण
    • कुत्र (कृतं) नवनीतनाट्यम्‌ ? नन्दभवने
    अनिभृत-आभरणं आकुञ्चित-एक-चरणं निभृत-अन्यपादम्‌ दध्ना निमन्थ-मुखरेण निबध्द-तालं नन्दभवने नाथस्य नवनीतनाट्यम्‌ पुरस्तात्‌ आविर्भवतु ।

  4. हर्तुं कुम्भे विनिहितकरः स्वादुहैयङ्गवीनं
    दृष्टवा दामग्रहणचटुलां मातरं जातरोषाम् ।
    पायादीषत्प्रचलितपदो नापगच्छन् न तिष्ठन्
    मिथ्यागोपः सपदि नयने मीलयन् विश्वगोप्ता ॥
    हर्तुं कुम्भे विनिहित-करः स्वादु-हैयङ्ग-वीनम् दृष्टवा दाम-ग्रहण-चटुलाम् मातरम् जात-रोषाम्‌ पायात् ईषद्-प्रचलित-पदः न अपगच्छन्‌ न तिष्ठन्‌ मिथ्या-गोपः सपदि नयने मीलयन्‌ विश्व-गोप्ता ।
    • पायात् ।
    • कः पायात् ? विश्व-गोप्ता
    • कीदृशः विश्व-गोप्ता ? मिथ्या-गोपः
    • पुनः कीदृशः विश्व-गोप्ता ? विनिहित-करः
    o कुत्र विनिहित-करः ? कुम्भे
    o किं कर्तुं विनिहित-करः ? हर्तुम्
    o किं हर्तुम् ? स्वादु-हैयङ्ग-वीनम्
    • पुनः कीदृशः विश्व-गोप्ता ? ईषद्-प्रचलित-पदः
    o किं कृत्वा ईषद्-प्रचलित-पदः ? दृष्टवा
     कां दृष्टवा ? मातरम्
    • कीदृशीं मातरम् ? जात-रोषाम्
    • पुनः कीदृशीं मातरम् ? दाम-ग्रहण-चटुलां
    • किं कुर्वन् विश्व-गोप्ता ? न अपगच्छन्‌
    • पुनः किं कुर्वन् विश्व-गोप्ता ? न तिष्ठन्‌
    • पुनः किं कुर्वन् विश्व-गोप्ता ? मीलयन्‌
    o के (द्वे) मीलयन्‌ ? नयने
    o कदा मीलयन्‌ ? सपदि

    स्वादु-हैयङ्ग-वीनं हर्तुं कुम्भे विनिहित-करः, जात-रोषां दाम-ग्रहण-चटुलां मातरं दृष्टवा, ईषद्-प्रचलित-पदः, न अपगच्छन्‌, न तिष्ठन्‌, सपदि नयने मीलयन्‌ मिथ्या-गोपः विश्व-गोप्ता पायात् ।

  5. व्रज-योषिदपाङ्ग-वेधनीयं
    मधुरा-भाग्यम् अनन्य-भोग्यमीडे ।
    वसुदेव-वधू-स्तनन्धयं तत्‌
    किमपि ब्रह्म किशोर-भाव-दृश्यम्‌ ॥
    व्रज-योषित्-अपाङ्ग-वेधनीयम् मधुरा-भाग्यम् अनन्य-भोग्यम् ईडे वसुदेव-वधू-स्तनन्धयम् तत्‌ किम् अपि ब्रह्म किशोर-भाव-दृश्यम्‌ ।
    • किं ईडे ? ब्रह्म
    o किं ब्रह्म ? तत्
     पुनः किं ब्रह्म ? किम् अपि
     कीदृशं ब्रह्म ? व्रज-योषित्-अपाङ्ग-वेधनीयम्
     पुनः कीदृशं ब्रह्म ? मधुरा-भाग्यम्
     पुनः कीदृशं ब्रह्म ? अनन्य-भोग्यम्
     पुनः कीदृशं ब्रह्म ? वसुदेव-वधू-स्तनन्धयम्
     पुनः कीदृशं ब्रह्म ? किशोर-भाव-दृश्यम्‌
    व्रज-योषित्-अपाङ्ग-वेधनीयं मधुरा-भाग्यम् अनन्य-भोग्यं वसुदेव-वधू-स्तनन्धयं किशोर-भाव-दृश्यं किम् अपि तत्‌ ब्रह्म (अहम्) ईडे ।

  6. परिवर्तित-कन्धरं भयेन
    स्मित-फुल्लाधर-पल्लवं स्मरामि ।
    विटपित्व-निरासकं कयोश्चित्‌
    विपुलोलूखल-कर्षकं कुमारम्‌ ॥ ७ ॥
    परिवर्तित-कन्धरम् भयेन स्मित-फुल्ल-अधर-पल्लवम् स्मरामि विटपित्व-निरासकम् कयोश्चित्‌ विपुल-उलूखल-कर्षकम् कुमारम्‌ ।
    • (अहं) स्मरामि
    o कं स्मरामि ? कुमारम्
    o कीदृशं कुमारम् ? विपुल-उलूखल-कर्षकं
    o पुनः कीदृशं कुमारम् ? परिवर्तित-कन्धरम्
    o केन कारणेन परिवर्तित-कन्धरम् ? भयेन
    o पुनः कीदृशं कुमारम् ? स्मित-फुल्ल-अधर-पल्लवम्
    o पुनः कीदृशं कुमारम् ? विटपित्व-निरासकम्
    o कयोः विटपित्व-निरासकम् ? कयोश्चित्‌
    विपुल-उलूखल-कर्षकं, भयेन परिवर्तित-कन्धरं, स्मित-फुल्ल-अधर-पल्लवं, कयोश्चित्‌ विटपित्व-निरासकं, कुमारम् (अहं) स्मरामि ।

  7. निकटेषु निशामयामि नित्यं
    निगमान्तैरधुनाऽपि मृग्यमाणम् ।
    यमलार्जुनदृष्टबालकेलिं
    यमुनासाक्षिकं यौवनं युवानम् ॥ 8 ॥
    निकटेषु निशामयामि नित्यम् निगमान्तैः अधुना अपि मृग्यमाणम् यमल-अर्जुन-दृष्ट-बालकेलिम् यमुना-साक्षिकम् यौवनम् युवानम् ।
    • (अहं) निशामयामि
    o कदा निशामयामि ? नित्यम्
    o कुत्र निशामयामि ? निकटेषु
    o कं निशामयामि ? युवानम्
     कीदृशं युवानम् ? मृग्यमाणम्
    • कैः मृग्यमाणम् ? निगमान्तैः
    • कदा मृग्यमाणम् ? अधुना अपि
     कीदृशं युवानम् ? यमल-अर्जुन-दृष्ट-बालकेलिम्
     पुनः कीदृशं युवानम् ? यौवनम्
    • कीदृशं यौवनम् ? यमुना-साक्षिकम्
    निगमान्तैः अधुना अपि मृग्यमाणं यमल-अर्जुन-दृष्ट-बालकेलिं, यमुना-साक्षिकं यौवनं, युवानं निकटेषु नित्यं निशामयामि ।

  8. पदवीमदवीयसीं विमुक्तेः
    अटवी-संपदमम्बु-वाहयन्तीम् ‌।
    अरुणाधर-साभिलाष-वंशां
    करुणां कारणमानुषीं भजामि ॥
    पदवीम् अदवीयसीम् विमुक्तेः अटवी-संपदम् अम्बु-वाहयन्तीम् अरुण-अधर-साभिलाष-वंशाम् करुणाम् कारणमानुषीम् भजामि ‌।
    • (अहं) भजामि
    • कां भजामि ? करुणाम्
    • कीदृशीं करुणाम् ? कारणमानुषीम्
    • पुनः कीदृशीं करुणाम् ? अरुण-अधर-साभिलाष-वंशाम्
    • पुनः कीदृशीं करुणाम् ? अम्बु-वाहयन्तीम्
    o कीदृशीं अम्बु-वाहयन्तीम् ? अटवी-संपदम्
    • पुनः कीदृशीं करुणाम् ? पदवीम्
    o कीदृशीं पदवीम् ? अदवीयसीम्
    o कस्याः पदवीम् ? विमुक्तेः
    विमुक्तेः अदवीयसीं पदवीम् अटवी-संपदम् अम्बु-वाहयन्तीम् अरुण-अधर-साभिलाष-वंशां कारणमानुषीं करुणां भजामि ‌।

  9. अनिमेष-निषेवणीयमक्ष्णोः
    अजहद्यौवनमाविरस्तु चित्ते ।
    कलहायित-कुन्तलं कलापैः
    करणोन्मादक-विभ्रमं महो मे ॥ १० ॥
    अनिमेष-निषेवणीयम् अक्ष्णोः अजहत्-यौवनम् आविरस्तु चित्ते कलहायित-कुन्तलम् कलापैः करण-उन्मादक-विभ्रमम् महः मे ।
    • आविरस्तु (आङ्-विश्-अस् धातुः)
    • किं आविरस्तु ? महः
    o कीदृशं महः ? अनिमेष-निषेवणीयम्
     कयोः अनिमेष-निषेवणीयम् ? अक्ष्णोः
    o पुनः कीदृशं महः ? अजहत्-यौवनम्
    o पुनः कीदृशं महः ? कलापैः कलहायित-कुन्तलम्
     कैः कलहायित-कुन्तलम् ? कलापैः
    o पुनः कीदृशं महः ? करण-उन्मादक-विभ्रमम्
    • कुत्र आविरस्तु ? चित्ते
    o कस्य चित्ते ? मे
    अक्ष्णोः अनिमेष-निषेवणीयम्, अजहत्-यौवनं, कलापैः कलहायित-कुन्तलं, करण-उन्मादक-विभ्रमं, महः मे चित्ते आविरस्तु ।

  10. अनुयायि-मनोज्ञ-वंशनालैः
    अवतु स्पर्शित-वल्लवी-विमोहैः ।
    अनघ-स्मित-शीतलैरसौ माम्‌
    अनुकम्पा-सरिदम्बुजैरपाङ्गैः ॥ ११ ॥
    अनुयायि-मनोज्ञ-वंशनालैः अवतु स्पर्शित-वल्लवी-विमोहैः अनघ-स्मित-शीतलैः असौ माम्‌ अनुकम्पा-सरित्-अम्बुजैः अपाङ्गैः ।
    • अवतु
    o कः अवतु ? असौ (अदस् शब्दः)
    o कम् अवतु ? माम्‌
    o कैः अवतु ? अपाङ्गैः
     कीदृशैः अपाङ्गैः ? अनुयायि-मनोज्ञ-वंशनालैः
     पुनः कीदृशैः अपाङ्गैः ? स्पर्शित-वल्लवी-विमोहैः
     पुनः कीदृशैः अपाङ्गैः ? अनघ-स्मित-शीतलैः
     पुनः कीदृशैः अपाङ्गैः ? अनुकम्पा-सरिदम्बुजैः
    अनुयायि-मनोज्ञ-वंशनालैः स्पर्शित-वल्लवी-विमोहैः अनघ-स्मित-शीतलैः अनुकम्पा-सरिदम्बुजैः अपाङ्गैः असौ माम्‌ अवतु ।

  11. अधराहित-चारु-वंशनालाः
    मकुटालम्बि-मयूर-पिञ्छ-मालाः ।
    हरिनील-शिला-विभङ्ग-नीलाः
    प्रतिभास्सन्तु ममान्तिम-प्रयाणे ॥ १२ ॥
    अधराहित-चारु-वंशनालाः मकुट-आलम्बि-मयूर-पिञ्छ-मालाः हरिनील-शिला-विभङ्ग-नीलाः प्रतिभाः सन्तु मम अन्तिम-प्रयाणे ।
    • सन्तु
    o कदा सन्तु ? अन्तिम-प्रयाणे
     कस्य अन्तिम-प्रयाणे ? मम
    o काः सन्तु ? प्रतिभाः
     कीदृशाः प्रतिभाः ? अधराहित-चारु-वंशनालाः
     पुनः कीदृशाः प्रतिभाः ? मकुटालम्बि-मयूर-पिञ्छ-मालाः
     पुनः कीदृशाः प्रतिभाः ? हरिनील-शिला-विभङ्ग-नीलाः
    अधर-आहित-चारु-वंशनालाः मकुटालम्बि-मयूर-पिञ्छ-मालाः हरिनील-शिला-विभङ्ग-नीलाः प्रतिभाः मम अन्तिम-प्रयाणे सन्तु ।

  12. अखिलानवलोकयामि कालान्‌
    महिलाधीनभुजान्तरस्य यूनः ।
    अभिलाषपदं व्रजाङ्गनानाम्‌
    अबिलापक्रमदूरमाभिरूप्यम्‌ ॥१३॥
    अखिलान् अवलोकयामि कालान्‌ महिला-अधीन-भुज-अन्तरस्य यूनः अभिलाष-पदम् व्रज-अङ्गनानाम्‌ अबिलाप-क्रम-दूरम् आभिरूप्यम्‌ ।

    • (अहम्) अवलोकयामि
    o किम् अवलोकयामि ? आभिरूप्यम्‌
     कस्य आभिरूप्यम्‌ ? यूनः (युवन् शब्दः)
    • कीदृशस्य यूनः ? महिलाधीन-भुजान्तरस्य
     कीदृशम् आभिरूप्यम्‌ ? अभिलाष-पदम्
    • केषाम् अभिलाष-पदम् ? व्रजाङ्गनानाम्‌
     पुनः कीदृशम् आभिरूप्यम्‌ ? अबिलाप-क्रम-दूरम्
    o कदा अवलोकयामि ? कालान्‌ (सप्तम्यर्थे द्वितीयाविभक्तिः)
     कीदृशान् कालान्‌ ? अखिलान्

    व्रजाङ्गनानाम्‌ अभिलाष-पदम्, अबिलाप-क्रम-दूरं, महिलाधीन-भुजान्तरस्य यूनः आभिरूप्यम्‌ अखिलान् कालान्‌ अवलोकयामि ।

  13. हृदि मुग्ध-शिकण्ड-मण्डनो
    लिखितः केन ममैष शिल्पिना ।
    मदनातुर-वल्लवाङ्गना-
    वदनाम्बोज-दिवाकरो युवा ॥ १४ ॥
    हृदि मुग्ध-शिकण्ड-मण्डनः लिखितः केन मम एषः शिल्पिना मदन-आतुर-वल्लव-आङ्गना-वदन-अम्बोज-दिवाकरः युवा ।
    • लिखितः (अस्ति) ।
    • कुत्र लिखितः ? हृदि
    o कस्य हृदि ? मम
    • कः लिखितः ? एषः युवा
    o कीदृशः युवा ? मुग्ध-शिकण्ड-मण्डनः
    o पुनः कीदृशः युवा ? मदनातुर-वल्लवाङ्गना-वदनाम्बोज-दिवाकरः
    • केन लिखितः ? शिल्पिना
    o केन शिल्पिना ? केन (किं शब्दः, क शब्दः च)
    मुग्ध-शिकण्ड-मण्डनः मदनातुर-वल्लवाङ्गना-वदनाम्बोज-दिवाकरः एषः युवा मम हृदि केन शिल्पिना लिखितः (अस्ति) ।

  14. Was very upset when the site did not open for few days Now iam happy that it is on.
    Swamin, iam eagerly waiting for orher stotras
    Hope you will oblige me
    Dasan srivathsan

Leave a Reply

Your email address will not be published. Required fields are marked *

Enter Captcha Here : *

Reload Image