One of the purposes of this website is to teach the basics of Sanskrit through the works of Swami Vedanta Desika. The hyperlinked audio file consists of explanation of the stotra – Nyasa Dashaka – with special emphasis on Sanskrit.
One of the purposes of this website is to teach the basics of Sanskrit through the works of Swami Vedanta Desika. The hyperlinked audio file consists of explanation of the stotra – Nyasa Dashaka – with special emphasis on Sanskrit.
Here is the video for the full explanation
https://www.youtube.com/watch?v=NWA1i0tIEJQ
This is the video for just the chanting
https://www.youtube.com/watch?v=EqlnUJp8_zw
Thanks!
Please delete the above comment. I am making some corrections. I will share the link.
https://www.youtube.com/watch?v=gZqKbJIjDnM
नमस्क्रिया-श्लोकः
श्रीमान्वेङ्कटनाथार्यः
कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे
सन्निधत्तां सदा हृदि ॥
मङ्गलश्लोकः
कवितार्किकसिंहाय
कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय
वेदान्तगुरवे नमः॥
अहं मद्रक्षणभरो मद्रक्षणफलं तथा ।
न मम श्रीपतेरेवेत्यात्मानं निक्षिपेत् बुधः॥ १ ॥
[पदच्छेदः] अहम् , मद्-रक्षण-भरः, मद्-रक्षण-फलम् , तथा, न, मम, श्रीपतेः, एव, इति, आत्मानम् , निक्षिपेत्, बुधः । [न्यासः = निक्षेपः, त्यागः, अर्पणम्]
[अन्वयः] अहं, मद्रक्षणभरः, तथा मद्रक्षणफलं, मम न, श्रीपतेः एव इति बुधः आत्मानं निक्षिपेत् ।
न्यस्याम्यकिञ्चनः श्रीमन् अनुकूलोऽन्यवर्जितः ।
विश्वासप्रार्थनापूर्वम् आत्मरक्षाभरं त्वयि ॥ २ ॥
[पदच्छेदः] न्यस्यामि, अकिञ्चनः, श्रीमन्, अनुकूलः, अन्यवर्जितः, विश्वास-प्रार्थना-पूर्वम् , आत्म-रक्षा-भरम् , त्वयि ।
[अन्वयः] (हे) श्रीमन् ! (अहम्) अकिञ्चनः (सन्), अनुकूलः (सन्), अन्यवर्जितः (सन्), विश्वासप्रार्थनापूर्वं त्वयि आत्मरक्षाभरं न्यस्यामि ।
स्वामी स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् ।
स्वदत्तस्वधिया स्वार्थं स्वस्मिन् न्यस्यति मां स्वयम् ॥ ३ ॥
[पदच्छेदः] स्वामी, स्व-शेषम् , स्व-वशम् , स्व-भरत्वेन, निर्-भरम् , स्व-दत्त-स्व-धिया, स्वार्थम् , स्वस्मिन्, न्यस्यति, माम् , स्वयम् । [स्वधीः = आत्मज्ञानम् ]
[अन्वयः] स्वामी स्वशेषं स्ववशं निर्भरं मां स्वदत्तस्वधिया स्वभरत्वेन स्वार्थं स्वस्मिन् स्वयं न्यस्यति ।
श्रीमन्नभीष्टवरद त्वामस्मि शरणङ्गतः ।
एतद्देहावसाने मां त्वत्पादं प्रापय स्वयम् ॥ ४ ॥
[पदच्छेदः] श्रीमन्, अभि-इष्ट-वरद, त्वाम् , अस्मि, शरणम् , गतः, एतद्-देह-अवसाने, माम् , त्वत्-पादम् , प्रापय, स्वयम् । [देहावसानम् = मरणात् परम्]
[अन्वयः] (हे) श्रीमन् ! (हे) अभीष्टवरद ! (अहं) त्वां शरणं गतः अस्मि । (त्वं) एतद्देहावसाने मां त्वत्पादं स्वयं प्रापय ।
त्वच्छेषत्वे स्थिरधियं त्वत्प्राप्त्येकप्रयोजनम् ।
निषिद्धकाम्यरहितं कुरु मां नित्यकिङ्करम् ॥ ५ ॥
[पदच्छेदः] त्वत्-शेषत्वे, स्थिर-धियम् , त्वत्-प्राप्ति-एक-प्रयोजनम् , निषिद्ध-काम्य-रहितम् , कुरु, माम् , नित्य-किङ्करम् । [शेषत्वम् = उपकारित्वं, पारार्थ्यम्]
[अन्वयः] त्वच्छेषत्वे स्थिरधियं, त्वत्प्राप्त्येकप्रयोजनं, निषिद्धकाम्यरहितं, नित्यकिङ्करं, मां कुरु ।
देवीभूषणहेत्यादिजुष्टस्य भगवंस्तव ।
नित्यं निरपराधेषु कैङ्कर्येषु नियुङ्क्ष्व माम् ॥ ६ ॥
[पदच्छेदः] देवी-भूषण-हेति-आदि-जुष्टस्य, भगवन् , तव, नित्यम् , निर्-अपराधेषु, कैङ्कर्येषु, नियुङ्क्ष्व, माम् । [हेतिः = आयुधम् , जुष्टः = सन्तुष्टः, सेवितः, नियुङ्क्ष्व = नियोजय]
[अन्वयः] (हे) भगवन् ! देवीभूषणहेत्यादिजुष्टस्य तव निरपराधेषु कैङ्कर्येषु मां नित्यं नियुङ्क्ष्व ।
मां मदीयं च निखिलं चेतनाचेतनात्मकम् ।
स्वकैङ्कर्योपकरणं वरद स्वीकुरु स्वयम् ॥ ७ ॥
[पदच्छेदः] माम् , मदीयम् , च, निखिलम् , चेतन-अचेतन-आत्मकम् , स्व-कैङ्कर्य-उपकरणम् , वरद, स्वीकुरु, स्वयम् ।
[अन्वयः] (हे) वरद ! मां च निखिलं चेतन-अचेतन-आत्मकं मदीयं च स्वकैङ्कर्योपकरणं स्वयं स्वीकुरु ।
त्वदेकरक्ष्यस्य मम त्वमेव करुणाकर ।
न प्रवर्तय पापानि प्रवृत्तानि निवर्तय ॥ ८ ॥
[पदच्छेदः] त्वत्-एक-रक्ष्यस्य, मम, त्वम् , एव, करुणा-आकर, न, प्रवर्तय, पापानि, प्रवृत्तानि, निवर्तय ।
[अन्वयः] (हे) करुणाकर ! त्वम् एव त्वदेकरक्ष्यस्य मम पापानि न प्रवर्तय । प्रवृत्तानि पापानि निवर्तय ।
अकृत्यानां च करणं कृत्यानां वर्जनं च मे ।
क्षमस्व निखिलं देव प्रणतार्तिहर प्रभो ॥ ९ ॥
[पदच्छेदः] अकृत्यानाम् , च, करणम् , कृत्यानाम् , वर्जनम् , च, मे, क्षमस्व, निखिलम् , देव, प्रणत-आर्ति-हर, प्रभो ।
[अन्वयः] (हे) देव ! (हे) प्रणतार्तिहर ! (हे) प्रभो ! मे अकृत्यानां करणं च कृत्यानां वर्जनं च निखिलं क्षमस्व ।
श्रीमान् नियतपञ्चाङ्गं मद्रक्षणभरार्पणम् ।
अचीकरत् स्वयं स्वस्मिन् अतोऽहमिह निर्भरः ॥ १० ॥
[पदच्छेदः] श्रीमान् , नियत-पञ्चाङ्गम् , मद्-रक्षण-भरार्पणम् , अचीकरत् , स्वयम् , स्वस्मिन् , अतः, अहम् , इह, निर्भरः ।
[अन्वयः] श्रीमान् नियतपञ्चाङ्गं मद्रक्षणभरार्पणं स्वयं स्वस्मिन् अचीकरत् । अतः अहम् इह निर्भरः (अस्मि) ।