The Character of Bharata assumes much importance and invokes a greater sentiment in the minds of the readers for he bears the brunt of fate for no fault of his. He had to face the harsh words from his elder mother, Maharishis et al. His innocence is vindicated by the granting of Padukas by Rama in whom he places the burden of Kingship and awaits the return of Rama from his exile after which he is completely relieved of his bhara or burden.
This article in Sanskrit summarises his hardship.
भरतभरः – एकः लघुप्रबन्धः byडा. श्रीरामः जगन्नाथः
अस्ति
महर्षिणा वाल्मीकिना प्रणीते महाकाव्ये इतिहासभूते श्रीमद्रामायणे सीतायाः चरिते
सर्वेषामपि कथापात्राणां वैलक्ष्ण्यं महत्त्वञ्च । किन्तु भरतस्य वहितान्यवृथागर्हाभरस्य
यावदस्ति माहात्म्यं तावन्नास्ति अन्येषामिति हि विभाति तोलनात्मकाध्ययने । असह्यदुर्वचनभरवाहिनः
तस्य शिरसा धृतः स्वज्येष्ठभ्रातुः पादुकयोः भरः एव इतरान् सर्वान् अपि भरान्
अपोहति । तस्य विवरणं तावत् पश्यामः अस्मिन् प्रबन्धे ।
रामादिचतुर्णां
विवाहानन्तरं भरतं स्वमातुलगृहं प्रति चालयामास भगवान् कालः । एतस्मिन् समये राजा
दशतथः रामस्य यौवराज्याभिषेकं प्रति चिन्तयामास । मन्त्रिणां प्रजानां च
विषयेस्मिन् अभिप्रायं ज्ञात्वा कार्यसमाप्तये तत्वरे । अत्र स्वारस्यं तावत्
दशरथः कैकेयीपरिणयसमये एव स्वश्वशुराय किञ्चिद्राज्यशुल्कं प्रतिश्रुतवान् । तद्धि
‘कैकेयीतनयम् अभिषेक्ष्यामी’ति प्रतिज्ञा । एतां प्रतिज्ञां भरतोऽपि ज्ञातवान्,
ज्ञात्वैव रामस्याभिषेचनं निर्विघ्नं भवेत् तत्पर्यन्तं नाहं पुनरागमिष्यामीति मुदा
स्वमातुलगृहं प्रति जगाम । एतत् स्वयमेव कैकेयीं गदिष्यति अनन्तरम् –
अभिषेक्ष्यति रामं तु राजा यज्ञं तु
यक्ष्यते।
इत्यहं
कृतसङ्कल्पो हृष्टो यात्रामयासिषम्॥ (अ.का. ७२.२७)
दशरथोऽपि भरतस्य निर्मलाशयं ज्ञात्वापि
विप्रोषिते तस्मिन् रामाभिषेके त्वरमानस्सन् रामाय समाधानमेवमुवाद –
ज्येष्टानुवर्ती
धर्मात्मा सानुक्रोशो जितेन्द्रियः।
किन्तु
चित्तं मनुष्याणाम् अनित्यमिति मे मतम् (अ.का.२६,२७)
भरतः धर्मात्मैव ज्येष्ठं त्वामेव
अनुवर्तते किन्तु चित्तचञ्चलता मनुष्याणां सर्वेषामपि अस्ति, यथाकथञ्चित् स तवाभिषेकं
निबध्नीयादिति । रामोऽपि एतं विषयं (राज्यशुल्कं) सम्यक् ज्ञात्वापि अजानन्निव
स्वभूमिकां सम्यक् निर्वहन् मातरि स्वस्य हर्षं प्रकटयति स्म । किन्तु वक्ष्यति ह्यनन्तरं
भरताय –
पुरा भ्रातः पिता नः स मातरं ते समुद्वहन्।
मातामहे
समाश्रौषीद् राज्यशुल्कमनुत्तमम्॥( अ.का. १०७.३)
येन
वयं जानीमः रामो दशरथप्रतिज्ञां विवेदेति । महाकविः कालिदासः रामस्य तथ्यामवस्थां
सन्दर्भेऽस्मिन् वर्णयति एवम् –
पित्रा दत्तं रुदन् रामः प्राङ्महीं
प्रत्यपद्यत।
पश्चाद्वनाय
गच्छेति तदाज्ञां मुदितोऽग्रहीत्॥ (र.व. १२.७)
प्रायः
स परमात्मा कैकेय्या वरयाचनं प्रतीक्षमानस्सन् मौनमाचरितवान् पितुराज्ञाञ्च
पालितवान्।
दशरथस्य मृत्योः पश्चाद्दूताः त्वरन्ते
स्म भरतमानेतुम् । तत्पूर्वमेव स्वदृष्टदुःस्वप्नेन भरतः स्वपुर्यां सर्वं न
शोभनमिति मत्वा विषण्णाोsभूत् । सतां हि काऽपि शक्तिः विद्यते भाविनो विषयान्
ज्ञातुम् । अयोध्यां पुनरागत्य पितरं राजानं दशरथमदृष्ट्वा मातरं यदापृच्छत् तदा
सा सर्वं वृत्तान्तं तस्मै न्यवेदयत् । भरतस्य दुःखमधिकं मा भूदिति चिन्तयन्ती
सैवमुवाच –
या गतिस्सर्वभूतानां तां गतिं
ते पिता गतः । (अ.का. ७२.१५)
रुदन्
भरतो यदा ‘रामं मम भ्रातरं पितरं बन्धुं तमेवाहं शरणं गच्छामि’ इत्युक्तवान् तदैव
कैकेयी ससीतस्य सलक्ष्मणस्य तस्य वनगमनवृत्तान्तं श्रावितवती । गण्डस्योपरि
जातपिण्डकेनेव दुःखमनुभूयमानाय भरताय तन्माता जगाद –
त्वया त्विदानीं धर्मज्ञ
राजत्वमवलब्यताम्।
त्वत्कृते
हि मया सर्वमिदमेवं विधं कृतम्॥ (अ.का. ७२.५२)
इत्युक्तवति
। अहो दैवस्य प्रभुत्वमिति भरतः बहुविलापं कृतवान्। यन्न भवेदिति मत्वा स्वमातुलगृहं
प्रति गतवान् तदेव जातमिति विलपन् स्वमातरं धिक्कृत्वा –
सकामां
न करिष्यामि त्वामहं पुत्रगर्द्धिनीम्। (अ.का. ७३.१७)
इति
सरोषं कथयति स्म । अपि च स धर्मात्मा मातरं बुबोध –
अस्मिन्
कुले हि सर्वेषां ज्येष्ठो राज्योऽभिषिच्यते। (अ.का. ७३.२०)
कौसल्याः गृहं त्वरमानं तं तस्याः कोप एव
स्वागतमकरोत्। यदा सा
इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम्।
(अ.का. ७५.११)
इति
भरतमभ्यकुत्सयत्, तदा भरतस्य स्वानुभूयमाने तीव्रव्रणे तद्वचनसूची अतीव पीडां जनयामास
। तस्याश्चरणयोः पतन् स बहुशपथं कृत्वा रामं प्रत्यानेष्यामि इति प्रतिज्ञां
कृतवान् । स्वपितुः अन्त्येष्टिकर्माणि परिसमापितवान् । मन्त्रिभिः वसिष्ठादिभिः
पुनः एकवारम् अभिषेचनं स्वस्याङ्गीक्रियतामिति चोद्यमानेऽपि
ज्येष्ठस्य राजता नित्यमुचिता हि
कुलस्य नः।
नैवं भवन्तो मा वक्तुमर्हन्ति कुशला
जनाः॥ (अ.का. ७९.७)
इति
सरोषं वदन् पुरा यन्निश्चितं –
निवर्तयित्वा रामं च तस्याहं दीप्ततेजसः।
दासभूतो
भविष्यामि सुस्थितेनान्तरात्मना॥ (अ.का. ७३. २७)
तदेव
परेषां प्रकटीकृत्य ससेनः वनं गत्वा तत्रैव रामं राजानं कृत्वा सर्वलोकसमक्षं
सौमित्रिसीतासहितं तमानेष्यामीति वनगमनाय मतिं चकार । अहो महतां हि स्वधृतेः
परीक्षा जायते पौनःपुन्यम् । महर्षिः वसिष्ठः पुनरपि भरतं स्वस्याभिषेकविषये
उपदिशति । तदा वदति धर्मात्मा भरत एवम् –
अनार्यजुष्टमस्वर्ग्यं कुर्यां पापमहं
यदि।
इक्ष्वाकूणाम्
अहं लोके भवेयं कुलपांसनः॥ (अ.का. ७२. १४)
दार्ढ्येण
तं वचनं निराकृतवान् । उक्तवान् खलु महर्षिः वाल्मीकिः आदौ प्रथमे सर्गे-
अयाचद्भ्रातरं
राममार्यभावपुरस्कृतः। (र.व. १.३५)
आम् भरतो आर्यतमः । ससेनं भरतं दृष्ट्वा
श्रृङ्गवेरपुरे निषादराजः गुहोऽपि भरतं शशङ्के ‘रामहननायैव स आगच्छती’ति । गुहस्तु
निषादः पामरः स्यात् स च भरतं शङ्केत । किन्तु महर्षिः भरद्वाजोऽपि स्ववागिषुणा
भरतं धर्मवतां मानवतां श्रेष्ठमताडयदेवम् –
कश्चिन्न तस्यापापस्य पापं
कर्तुमिहेच्छसि।
अकण्टकं
भोक्तुमना राज्यं तस्यानुजस्य च॥ (अ.का. ९०.१३)
अहो , एतच्छ्रुत्वा भरतस्य हृदयमेव
शकलीभूतम् । स न कदापि महर्षेः इदं वचनं प्रतीक्षते स्म । दीनः स प्रत्युक्तवानेवं
–
हतोऽस्मि यदि मामेवं भगवानपि
मन्यते। (अ.का. ९०.१५)
पुनः
परीक्षा खलु भरतस्य । महर्षिः अब्रवीत् –
जाने चैतन्मनःस्थं ते
दृढीकरणमस्त्विति।
अपृच्छ
त्वां तवात्यर्थं कीर्तिं समभिवर्धयन्॥ (अ.का. ९०.२१)
अहो
महतां निग्रहोऽपि अनुग्रहायते । स च महर्षिः भरतं ससेनं सम्यक् भोजयामास । ततः
चित्रकूटं प्रति भरतो निर्ययौ ।
तया महत्या सेनया शान्ते वने महान्
तुमुलो बभूव । तद्धेतुं ज्ञातुं रामेण प्रेरितःसन् लक्ष्मणः कस्यापि वृक्षस्योपरि
आरुह्य भरतं ससेनमपश्यत् । क्षणक्रुद्धः स रामाय ‘भरतं हन्यामि’ति न्यवेदयत् ।
महात्मा रामः सर्वज्ञः लक्ष्मणमेवं बध्नाति स्म वाचानया –
यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे।
वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै
प्रदीयताम्॥ (अ.का. ९७.१५)
अहो सहृदयहृदयज्ञो पुण्यात्मा रामः ।
अनन्तरं भरतः तत्र समागत्य रामस्य चरणयोः पपात । परस्परं राज्यभारावहने बुध्यमानौ
द्वावपि भ्रातरौ स्वीयां मतिं न पर्यत्यजताम्।
अन्ततः
उपायः एकः समुदितः। महर्षिणा वसिष्ठेन चोदितः भरतः स्वभ्रातरं रामं प्रार्थयामासैवं
प्रतिज्ञां च कृतवान् ।
अधिरोहार्य पादाभ्यां पादुके हेमभूषिते।
एते हि सर्वलोकस्य योगक्षेमं विधास्यतः॥
(अ.का. ११२.२१)
तव पादुकयोर्न्यस्य राज्यतन्त्रं परन्तप।
चतुर्दशे हि संपूर्णे वर्षेऽह्नि रघूत्तम॥ (अ.का. ११२.२५)
न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि
हुताशनम्॥ (अ.का. ११२.२६)
पादुके
स्वशिरसि सम्यगादाय –
ततः शिरसि कृत्वा तु पादुके भरतस्तदा।
सारुरोह रथं हृष्टः शत्रुघ्नसहितस्तदा॥
(अ.का. ११३.१)
नन्दिग्रामं
यात्वा रथादवतीर्य उक्तवान् हि गुरुभ्यः भरतः –
एतद्राज्यं मम भ्रात्रा दत्तं
संन्यासमुत्तमम् ।
योगक्षेमावहे चेमे पादुके हेमभूषिते ॥
(अ.का.११५.१५)
छत्रं धारयत क्षिप्रमार्यपादाविमौ मतौ ।
आभ्यां राज्ये स्थितो धर्मः पादुकाभ्यां
गुरोर्मम ॥
(अ.का.११५.१६)
भात्रा
तु मयि संन्यासो निक्षिप्तः सौहृदादयम् ।
तमिमं
पालयिष्यामि राघवाहृगमनं प्रति ॥ (अ.का.११५.१७)
क्षिप्रं
संयाजयित्वा तु राघवस्य पुनः स्वयम् ।
चरणौ
तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ॥ (अ.का.११५.१८)
ततो निक्षिप्तभारोऽहं राघवेण समागतः।
निवेद्य गुरवे राज्यं भजिष्ये गुरुवर्तितम्॥
(अ.का. ११५.१९)
पादुकयोः
राज्यपट्टाभिषेकं कृत्वा तयोः सर्वविदोपचारान् चकार । यदा रामः पुनरागत्य स्वस्य विभूतिम्
अयोध्यां नृपत्वेन परिपालयिष्यति तदैव मम भरः पूर्णतमः निवर्त्येत। इदानीं तु तस्य
पादुकयोरेव मम भरं न्यस्यामि इति किञ्चित् निर्भरः आसीत् स धर्मात्मा सानुक्रोशो
जितेन्द्रियः भरतः।
ततस्तु भरतः
श्रीमानभिषिच्यार्यपादुके ।
तदधीनस्तदा राज्यं कारयामास
सर्वदा ॥ (अ.का.११५.२६)
भरताय
परं नमोस्तु तस्मै प्रथमोदाहरणाय भक्तिभाजाम् ।
यदुपज्ञमशेषतः
पृथिव्यां प्रथितो राघवपादुकाप्रभावः ॥ (श्री.पा.स.२)
श्रीगुरुभ्यो
नमः
॥शुभं
भूयात्॥